श्रीमद्भगवद्गीता

अध्याय 5: कर्मयोग-कृष्णभावनाभावित कर्म

इस अध्याय के सभी श्लोक संस्कृत मूल पाठ, हिंदी अर्थ और सरल व्याख्या सहित पढ़ें।

अध्याय 5 का हिंदी वीडियो

YouTube पर देखें

अध्याय 5 के श्लोक

  1. श्लोक 1( सांख्ययोग और कर्मयोग का निर्णय ) अर्जुन उवाच सन्न्यासं कर्मणां कृष्ण पुनर्योगं च शंससि। यच्छ्रेय एतयोरेकं…
  2. श्लोक 2श्रीभगवानुवाच सन्न्यासः कर्मयोगश्च निःश्रेयसकरावुभौ। तयोस्तु कर्मसन्न्यासात्कर्मयोगो विशिष्यते॥
  3. श्लोक 3ज्ञेयः स नित्यसन्न्यासी यो न द्वेष्टि न काङ्‍क्षति। निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते॥
  4. श्लोक 4साङ्‍ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः। एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम्‌॥
  5. श्लोक 5यत्साङ्‍ख्यैः प्राप्यते स्थानं तद्यौगैरपि गम्यते। एकं साङ्‍ख्यं च योगं च यः पश्यति स पश्यति॥
  6. श्लोक 6सन्न्यासस्तु महाबाहो दुःखमाप्तुमयोगतः। योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति॥
  7. श्लोक 7( सांख्ययोगी और कर्मयोगी के लक्षण और उनकी महिमा ) योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः।…
  8. श्लोक 8–9नैव किंचित्करोमीति युक्तो मन्येत तत्ववित्‌। पश्यञ्श्रृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपंश्वसन्‌॥…
  9. श्लोक 10ब्रह्मण्याधाय कर्माणि सङ्‍गं त्यक्त्वा करोति यः। लिप्यते न स पापेन पद्मपत्रमिवाम्भसा॥
  10. श्लोक 11कायेन मनसा बुद्धया केवलैरिन्द्रियैरपि। योगिनः कर्म कुर्वन्ति संग त्यक्त्वात्मशुद्धये॥
  11. श्लोक 12युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम्‌। अयुक्तः कामकारेण फले सक्तो निबध्यते॥
  12. श्लोक 13(ज्ञानयोग का विषय ) सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी। नवद्वारे पुरे देही नैव कुर्वन्न कारयन्‌॥
  13. श्लोक 14न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः। न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते।
  14. श्लोक 15नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः। अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः॥
  15. श्लोक 16ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः। तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम्‌॥
  16. श्लोक 17तद्‍बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः। गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः॥
  17. श्लोक 18विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि। शुनि चैव श्वपाके च पण्डिताः समदर्शिनः॥
  18. श्लोक 19इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः। निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः॥
  19. श्लोक 20न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्‌। स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः॥
  20. श्लोक 21बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम्‌। स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते॥
  21. श्लोक 22ये हि संस्पर्शजा भोगा दुःखयोनय एव ते। आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः॥
  22. श्लोक 23शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात्‌। कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः॥
  23. श्लोक 24योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः। स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति॥
  24. श्लोक 25लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः। छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः॥
  25. श्लोक 26कामक्रोधवियुक्तानां यतीनां यतचेतसाम्‌। अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम्‌॥
  26. श्लोक 27–28( भक्ति सहित ध्यानयोग का वर्णन ) स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः। प्राणापानौ समौ…
  27. श्लोक 29भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम्‌। सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति॥