श्रीमद्भगवद्गीता

अध्याय 15: पुरुषोत्तम योग

इस अध्याय के सभी श्लोक संस्कृत मूल पाठ, हिंदी अर्थ और सरल व्याख्या सहित पढ़ें।

अध्याय 15 का हिंदी वीडियो

YouTube पर देखें

अध्याय 15 के श्लोक

  1. श्लोक 1(संसार वृक्ष का कथन और भगवत्प्राप्ति का उपाय) श्रीभगवानुवाच ऊर्ध्वमूलमधः शाखमश्वत्थं प्राहुरव्ययम्‌।…
  2. श्लोक 2अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः। अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके॥
  3. श्लोक 3न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा। अश्वत्थमेनं सुविरूढमूल मसङ्‍गशस्त्रेण दृढेन छित्त्वा॥
  4. श्लोक 4ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः। तमेव चाद्यं पुरुषं प्रपद्ये यतः प्रवृत्तिः प्रसृता…
  5. श्लोक 5निर्मानमोहा जितसङ्गदोषाअध्यात्मनित्या विनिवृत्तकामाः। द्वन्द्वैर्विमुक्ताः सुखदुःखसञ्ज्ञैर्गच्छन्त्यमूढाः…
  6. श्लोक 6न तद्भासयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम॥
  7. श्लोक 7(जीवात्मा का विषय) श्रीभगवानुवाच ममैवांशो जीवलोके जीवभूतः सनातनः। मनः षष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति॥
  8. श्लोक 8शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः। गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्‌॥
  9. श्लोक 9श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च। अधिष्ठाय मनश्चायं विषयानुपसेवते॥
  10. श्लोक 10उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम्‌। विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः॥
  11. श्लोक 11यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम्‌। यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः॥
  12. श्लोक 12(प्रभाव सहित परमेश्वर के स्वरूप का विषय) यदादित्यगतं तेजो जगद्भासयतेऽखिलम्‌। यच्चन्द्रमसि यच्चाग्नौ तत्तेजो…
  13. श्लोक 13गामाविश्य च भूतानि धारयाम्यहमोजसा। पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः॥
  14. श्लोक 14अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः। प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्‌॥
  15. श्लोक 15सर्वस्य चाहं हृदि सन्निविष्टोमत्तः स्मृतिर्ज्ञानमपोहनं च। वेदैश्च सर्वैरहमेव वेद्योवेदान्तकृद्वेदविदेव चाहम्‌॥
  16. श्लोक 16(क्षर, अक्षर, पुरुषोत्तम का विषय) द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर…
  17. श्लोक 17उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः॥
  18. श्लोक 18यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः॥
  19. श्लोक 19यो मामेवमसम्मूढो जानाति पुरुषोत्तमम्‌। स सर्वविद्भजति मां सर्वभावेन भारत॥
  20. श्लोक 20इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ। एतद्‍बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत॥