श्रीमद्भगवद्गीता

अध्याय 14: प्रकृति के तीन गुण

इस अध्याय के सभी श्लोक संस्कृत मूल पाठ, हिंदी अर्थ और सरल व्याख्या सहित पढ़ें।

अध्याय 14 का हिंदी वीडियो

YouTube पर देखें

अध्याय 14 के श्लोक

  1. श्लोक 1(ज्ञान की महिमा और प्रकृति-पुरुष से जगत्‌ की उत्पत्ति) श्रीभगवानुवाच परं भूयः प्रवक्ष्यामि ज्ञानानं…
  2. श्लोक 2इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥
  3. श्लोक 3मम योनिर्महद्ब्रह्म तस्मिन्गर्भं दधाम्यहम्‌। सम्भवः सर्वभूतानां ततो भवति भारत॥
  4. श्लोक 4सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः। तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता॥
  5. श्लोक 5(सत्‌, रज, तम- तीनों गुणों का विषय) सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निबध्नन्ति महाबाहो देहे…
  6. श्लोक 6तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम्‌। सुखसङ्‍गेन बध्नाति ज्ञानसङ्‍गेन चानघ॥
  7. श्लोक 7रजो रागात्मकं विद्धि तृष्णासङ्‍गसमुद्भवम्‌। तन्निबध्नाति कौन्तेय कर्मसङ्‍गेन देहिनम्‌॥
  8. श्लोक 8तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम्‌। प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत॥
  9. श्लोक 9सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत। ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत॥
  10. श्लोक 10रजस्तमश्चाभिभूय सत्त्वं भवति भारत। रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा॥
  11. श्लोक 11सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते। ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत॥
  12. श्लोक 12लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा। रजस्येतानि जायन्ते विवृद्धे भरतर्षभ॥
  13. श्लोक 13अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च। तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन॥
  14. श्लोक 14यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत्‌। तदोत्तमविदां लोकानमलान्प्रतिपद्यते॥
  15. श्लोक 15रजसि प्रलयं गत्वा कर्मसङ्‍गिषु जायते। तथा प्रलीनस्तमसि मूढयोनिषु जायते॥
  16. श्लोक 16कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम्‌। रजसस्तु फलं दुःखमज्ञानं तमसः फलम्‌॥
  17. श्लोक 17सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च। प्रमादमोहौ तमसो भवतोऽज्ञानमेव च॥
  18. श्लोक 18ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः। जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः॥
  19. श्लोक 19(भगवत्प्राप्ति का उपाय और गुणातीत पुरुष के लक्षण) नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति। गुणेभ्यश्च…
  20. श्लोक 20गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान्‌। जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते॥
  21. श्लोक 21अर्जुन उवाच कैर्लिङ्‍गैस्त्रीन्गुणानेतानतीतो भवति प्रभो। किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते॥
  22. श्लोक 22श्रीभगवानुवाच प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव। न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्‍क्षति॥
  23. श्लोक 23उदासीनवदासीनो गुणैर्यो न विचाल्यते। गुणा वर्तन्त इत्येव योऽवतिष्ठति नेङ्‍गते॥
  24. श्लोक 24समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः। तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः॥
  25. श्लोक 25मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः। सर्वारम्भपरित्यागी गुणातीतः सा उच्यते॥
  26. श्लोक 26मां च योऽव्यभिचारेण भक्तियोगेन सेवते। स गुणान्समतीत्येतान्ब्रह्मभूयाय कल्पते॥
  27. श्लोक 27ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च। शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च॥