श्रीमद्भगवद्गीता

अध्याय 8: भगवत्प्राप्ति

इस अध्याय के सभी श्लोक संस्कृत मूल पाठ, हिंदी अर्थ और सरल व्याख्या सहित पढ़ें।

अध्याय 8 का हिंदी वीडियो

YouTube पर देखें

अध्याय 8 के श्लोक

  1. श्लोक 1( ब्रह्म, अध्यात्म और कर्मादि के विषय में अर्जुन के सात प्रश्न और उनका उत्तर ) अर्जुन उवाच किं तद्ब्रह्म…
  2. श्लोक 2अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन। प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः॥
  3. श्लोक 3श्रीभगवानुवाच अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते। भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः॥
  4. श्लोक 4अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्‌। अधियज्ञोऽहमेवात्र देहे देहभृतां वर॥
  5. श्लोक 5अंतकाले च मामेव स्मरन्मुक्त्वा कलेवरम्‌। यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः॥
  6. श्लोक 6यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्‌। तं तमेवैति कौन्तेय सदा तद्भावभावितः॥
  7. श्लोक 7तस्मात्सर्वेषु कालेषु मामनुस्मर युद्ध च। मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्‌॥
  8. श्लोक 8( भक्ति योग का विषय ) अभ्यासयोगयुक्तेन चेतसा नान्यगामिना। परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन्‌॥
  9. श्लोक 9कविं पुराणमनुशासितार-मणोरणीयांसमनुस्मरेद्यः। सर्वस्य धातारमचिन्त्यरूप-मादित्यवर्णं तमसः परस्तात्‌॥
  10. श्लोक 10प्रयाण काले मनसाचलेन भक्त्या युक्तो योगबलेन चैव। भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्‌- स तं परं पुरुषमुपैति…
  11. श्लोक 11यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये॥
  12. श्लोक 12–13सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च। मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम्‌॥ ओमित्येकाक्षरं ब्रह्म…
  13. श्लोक 14अनन्यचेताः सततं यो मां स्मरति नित्यशः। तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनीः॥
  14. श्लोक 15मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्‌। नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः॥
  15. श्लोक 16आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन। मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते॥
  16. श्लोक 17सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः। रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः॥
  17. श्लोक 18अव्यक्ताद्व्यक्तयः सर्वाः प्रभवन्त्यहरागमे। रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके॥
  18. श्लोक 19भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते। रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे॥
  19. श्लोक 20परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः। यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति॥
  20. श्लोक 21अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम्‌। यं प्राप्य न निवर्तन्ते तद्धाम परमं मम॥
  21. श्लोक 22पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया। यस्यान्तः स्थानि भूतानि येन सर्वमिदं ततम्‌॥
  22. श्लोक 23( शुक्ल और कृष्ण मार्ग का विषय ) यत्र काले त्वनावत्तिमावृत्तिं चैव योगिनः। प्रयाता यान्ति तं कालं वक्ष्यामि…
  23. श्लोक 24अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम्‌। तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः॥
  24. श्लोक 25धूमो रात्रिस्तथा कृष्ण षण्मासा दक्षिणायनम्‌। तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते॥
  25. श्लोक 26शुक्ल कृष्णे गती ह्येते जगतः शाश्वते मते। एकया यात्यनावृत्ति मन्ययावर्तते पुनः॥
  26. श्लोक 27नैते सृती पार्थ जानन्योगी मुह्यति कश्चन। तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन॥
  27. श्लोक 28वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्‌। अत्येत तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति…